|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.99. अध्यायः 099
Mahabharata - Adi Parva - Chapter Topics
दुष्यन्तशकुन्तलाविवादः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
शकुन्तलोवाच। 1-99-0x(619)(4374)
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि॥ 1-99-1(4375)
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम्।
ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मतः॥ 1-99-2(4376)
क्षितौ चरसि राजंस्त्वमन्तरिक्षे चराम्यहम्।
आवयोरन्तरं पश्य मेरुसर्षपयोरिव॥ 1-99-3(4377)
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च।
भवनान्यनुसंयामि प्रभावं पश्य मे नृप॥ 1-99-4(4378)
`पुरा नरवरः पुत्र उर्वश्यां जनितस्तदा।
आयुर्नाम महाराज तव पूर्वपितामहः॥ 1-99-5(4379)
महर्षयश्च बहवः क्षत्रियाश्च परन्तपाः।
अप्सरःसु ऋषीणां च मातृदोषो न विद्यते॥' 1-99-6(4380)
सत्यश्चापि प्रवादोऽयं प्रवक्ष्यामि च ते नृप।
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तत्क्षन्तुमर्हसि॥ 1-99-7(4381)
विरूपो यावदादर्शे नात्मनो वीक्षते मुखम्।
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम्॥ 1-99-8(4382)
यदा तु रूपमादर्शे विरूपं सोऽभिवीक्षते।
तदा ह्रीमांस्तु जानीयादन्तरं नेतरं जनम्॥ 1-99-9(4383)
अतीव रूपसंपन्नो न कंचिदवमन्यते।
अतीव जल्पन्दुर्वाचो भवतीह विहेतुकः॥ 1-99-10(4384)
`पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः।
तथा परिवदन्नन्यान्हृष्टो भवति दुर्मतिः॥ 1-99-11(4385)
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव।
सुनास्तिकोप्युद्विजते जनः किं पुनरास्तिकः॥ 1-99-12(4386)
स्वयमुत्पाद्य पुत्रं वै सदृशं योऽवमन्यते।
तस्य देवाः श्रियं घ्नन्ति तत्रैनं कलिराविशेत्॥ 1-99-13(4387)
अभव्येऽप्यनृतेऽशुद्धे नास्तिके पापकर्मणि।
दुराचारे कलिर्ह्याशु न कलिर्धर्मचारिषु॥' 1-99-14(4388)
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः।
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः॥ 1-99-15(4389)
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः।
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसि॥ 1-99-16(4390)
`आत्मनो दुष्टभावत्वं जानन्नीचोऽप्रसन्नधीः।
परेषामपि जानाति स्वधर्मसदृशान्गुणान्॥ 1-99-17(4391)
दह्यमानास्तु तीव्रेण नीचाः परयशोग्निना।
अशक्तास्तद्गतिं गन्तुं ततो निन्दां प्रकुर्वते॥' 1-99-18(4392)
अन्यान्परिवदन्साधुर्यथा हि परितप्यते।
तथा परिवदन्नन्यान्हृष्टो भवति दुर्जनः॥ 1-99-19(4393)
`अपवादरता मूर्खा भवन्ति हि विशेषतः।
नापवादरताः सन्तो भवन्ति स्म विशेषतः॥' 1-99-20(4394)
अभिवाद्य यथा वृद्धान्साधुर्गच्छति निर्वृतिम्।
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः॥ 1-99-21(4395)
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः।
यथा वाच्याः परैः सन्तः परानाहुस्तथाविधान्॥ 1-99-22(4396)
अतो हास्यतरं लोके किंचिदन्यन्न विद्यते।
यदि दुर्जन इत्याहुः सज्जनं दुर्जनाः स्वयम्॥ 1-99-23(4397)
`दारुणाल्लोकसंक्लेशाद्दुःखमाप्नोत्यसंशयम्॥'
कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन्॥ 1-99-24(4398)
उत्तमं सर्वधर्माणां तस्मात्पुत्रं तु न त्यजेत्।
स्वपत्नीप्रभवाँल्लब्धान्कृतान्समयवर्धितान्॥ 1-99-25(4399)
क्रीतान्कन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत्।
`ते च षड्वन्धुदायादाः षडदायादबान्धवाः॥ 1-99-26(4400)
धर्मकृत्यवहा नॄणां मनसः प्रीतिवर्धनाः।
त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन्॥ 1-99-27(4401)
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि।
तस्मात्पुत्रं च सत्यं च पालयस्व महीपते॥ 1-99-28(4402)
उभयं पालयस्वैतन्नानृतं वक्तुमर्हसि।'
आत्मानं सत्यधर्मौ च पालयेथा महीपते।
नरेन्द्रसिंह कपटं न हि वोढुं त्वमर्हसि॥ 1-99-29(4403)
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः।
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम्॥ 1-99-30(4404)
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते॥ 1-99-31(4405)
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम्।
सत्यस्यैव च राजेन्द्र कलां नार्हति षोडशीम्॥ 1-99-32(4406)
नास्ति सत्यसमो धर्मो न सत्याद्विद्यते परम्।
न हि तीव्रतरं पापमनृतादिह विद्यते॥ 1-99-33(4407)
राजन्सत्यं परो धर्मः सत्याच्च समयः परः।
मात्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते॥ 1-99-34(4408)
`यः पापो न विजानीयात्कर्म कृत्वा नराधिप।
न हि तादृक्परं पापमनृतादिह विद्यते॥ 1-99-35(4409)
यस्य ते हृदयं वेद सत्यस्यैवानृतस्य च।
कल्याणावेक्षणं तस्मात्कर्तुमर्हसि धर्मतः॥ 1-99-36(4410)
यो न कामान्न च क्रोधान्न द्रोहादतिवर्तते।
अमित्रं वापि मित्रं वा स एवोत्तमपूरुषः॥' 1-99-37(4411)
अनृतश्चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम्।
आश्रमं गन्तुमिच्छामि त्वादृशो नास्ति सङ्गतं॥ 1-99-38(4412)
`पुत्रत्वे शङ्कमानस्य त्वं बुद्ध्या निश्चयं कुरु।
गतिः स्वरः स्मृतिः सत्वं शीलं विद्या च विक्रमः॥ 1-99-39(4413)
धृष्णुप्रकृतिभावौ च आवर्ता रोमराजयः।
समा यस्य यदा स्युस्ते तस्य पुत्रो न संशयः॥ 1-99-40(4414)
सादृश्येनोद्धऋतं बिम्बं तव देहाद्विशांपते।
तातेति भाषमाणं वै मा स्म राजन्वृथा कृथाः॥ 1-99-41(4415)
ऋते च गर्दभीक्षीरात्पयः पास्यति मे सुतः।'
ऋतेपि त्वां च दुष्यन्त शैलराजावतंसिकाम्।
चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति॥ 1-99-42(4416)
`शकुन्तले तव सुतश्चक्रवर्ती भविष्यति।
एवमुक्तं महेन्द्रेण भविष्यति न चान्यथा॥ 1-99-43(4417)
साक्षित्वे बहवो ह्युक्ता देवदूतादयो मया।
न ब्रुवन्ति तथा सत्यमुताहो नानृतं किल॥ 1-99-44(4418)
असाक्षिणी मन्दबाग्या गमिष्यामि यथागतम्॥' 1-99-45(4419)
वैशम्पायन उवाच। 1-99-46x(620)
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला।
`तस्याः क्रोधसमुत्थोग्निः सधूमो मूर्ध्न्यदृश्यत॥ 1-99-46(4420)
संनियम्यात्मनोऽङ्गेषु ततः क्रोधाग्निमात्मजम्।
प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम्'॥ ॥ 1-99-47(4421)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनशततमोऽध्यायः॥ 99 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|